मुख्यपृष्ठम्

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
माध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः

द्वैतवेदान्तःत्रिषु वेदान्तेषु माध्वसिद्धान्तः अन्यतमः अस्ति। द्वैतपदस्य भेदः इत्यर्थः। अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति। अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यःमध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति। एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति। स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते। तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम्। अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति। तत्त्वप्रतिपादकः श्लोकः,

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥ (अधिकवाचनाय »)



प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
प्रसिद्धाः दश उपनिषदः -

अयं च श्लोक: -

ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरि ।
ऐतरेयञ्च छान्दोग्यं बृहदारण्यकं तथा ॥



आधुनिकलेखः
आधुनिकाः लेखाः
हेलेन् केलर्

हेलेन एड्मन्स् केलर अन्धा, बधिरा, मूका चासीत्। परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत्। यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत्। अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत्। सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता। तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते। हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति। हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत्। (अधिकवाचनाय »)




वर्तमानघटनाः
अद्यतनं सुभाषितम्

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम्।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

अनुशासनपर्व १४५/२

जीवने कष्टानि दुःखानि यदा आपतन्ति तदा बहवः वदन्ति – ग्रहगतिः समीचीना नास्ति इति। किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति। अस्माभिः कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते। ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां वचनमात्रम्।


सहपरियोजनाः

This page is based on a Wikipedia article written by contributors (read/edit). Text is available under the CC BY-SA 4.0 license; additional terms may apply. Images, videos and audio are available under their respective licenses. Cover photo is available under CC BY 2.0 license.