ऋग्वेदस्य मातृका
वेदः संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। भारते धर्मव्यवस्था वेदायत्तैव। वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया। श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी। न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि। प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। चत्वारः वेदाः भवन्ति। ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति। एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागः अस्ति। वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति। तानि च सूक्तानि प्रतिभानवतां ऋषीणां योगदानानि भवन्ति। एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति। (अधिकवाचनाय »)
|